(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.246. अध्यायः 246
Mahabharata - Vana Parva - Chapter Topics
अर्जुनेन मायाशक्त्याऽन्तर्धानेन युध्यते चित्रसेनायास्रप्रयोगे सति तेनार्जुनप्रति स्वस्य सखित्वकथनम् ॥ 1 ॥ ततोऽर्जुनेनास्रोपसंहारे भीमादीनां युद्धोपरमपूर्वकं तेन सह संलापः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-246-0x(2604)(25519)
ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः।
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥ 3-246-1(25520)
चतुरः पाण्डवान्वीरान्गन्धर्वाश्च सहस्रशः।
रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥ 3-246-2(25521)
यथा कर्णस्य च रथो धार्तराष्ट्रस् चोभयोः।
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रितरे ॥ 3-246-3(25522)
तान्समापततो राजन्गधर्वाञ्छतशो रणे।
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥ 3-246-4(25523)
ते कीर्यमाणाः खगमाः शरवर्षैः समन्ततः।
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥ 3-246-5(25524)
अभिक्रुद्धानभिक्रुद्धो गन्धर्वानर्जुनस्तदा।
लक्षयित्वाऽथ दिव्यानि महास्त्राण्युपचक्रमे ॥ 3-246-6(25525)
सहस्राणां सहस्राणि प्राहिणोद्यमसादनम्।
अजेयानर्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः ॥ 3-246-7(25526)
तथा भीमो महेष्वासः संयुगे बलिनांवरः।
गन्धर्वाञ्शतशो राजञ्चघान निशितैः शरैः ॥ 3-246-8(25527)
माद्रीपुत्रावपि तथा युध्मानौ बलोत्कटौ।
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥ 3-246-9(25528)
तेवध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महारथैः।
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥ 3-246-10(25529)
सतानुत्पतितानदृष्ट्वा कुन्तीपुत्रो धनंजयः।
महता शरजालेन समन्तात्पर्यवारयत् ॥ 3-246-11(25530)
ते ब्रद्धाः शरजालेन शकुन्ता इव पञ्जरे
ववर्पुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥ 3-246-12(25531)
गदाशक्त्यृष्टिवृष्टीस्ता निहत्य परमास्त्रवित्।
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः ॥ 3-246-13(25532)
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा।
अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥ 3-246-14(25533)
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना।
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥ 3-246-15(25534)
तेषां तु शरवर्षाणि सव्यसाची परंतपः।
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥ 3-246-16(25535)
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथाऽर्जुनः।
आग्नेयं चापि सौम्यं च ससर्ज कुरुननदनः ॥ 3-246-17(25536)
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः।
दैतेया इव शक्रेण विषादमगमन्परम् ॥ 3-246-18(25537)
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः।
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥ 3-246-19(25538)
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण भारत।
चित्रसेनो गदां गृह्य सव्यसाचिनमनाद्रवत् ॥ 3-246-20(25539)
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे।
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥ 3-246-21(25540)
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना।
संवृत्य विद्ययाऽऽत्मानं योधयामास पाण्डवं ॥ 3-246-22(25541)
अस्त्राणइ तस्य दिव्यानि संप्रयुक्तानि सर्वशः।
दिव्यैरस्त्रैस्तदा वीरः पर्यवारयदर्जुनः ॥ 3-246-23(25542)
स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना।
गन्धर्वराजो बलवान्माययाऽन्तर्हितस्तदा ॥ 3-246-24(25543)
अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः।
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥ 3-246-25(25544)
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा।
शब्दवेषं समाश्रित्य बहुरूपो धनंजयः ॥ 3-246-26(25545)
रस वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना।
ततोऽस्य दर्शयामास तदाऽऽत्मानं प्रियः सखा ॥ 3-246-27(25546)
चित्रसेनस्तथोवाच सखायं युधि विद्धि माम्।
चित्रसेनमथालक्ष्य सखायमिति विस्मितः ॥ 3-246-28(25547)
संजहारास्त्रमथं तत्प्रसृष्टं पाण्डवर्षभः ॥ 3-246-29(25548)
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम्।
संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥ 3-246-30(25549)
चित्रसेनश्च भीमश्च सव्यसाची यमावपि।
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥ 3-246-31(25550)

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 246 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-246-3 तथा तेषां चतुर्णामपि रथान् छन्नान् प्रचक्रिरे गन्धर्वाः ॥ 3-246-20 गृह्य गृहीत्वा ॥ 3-246-22 संवृत्य आच्याद्य। विद्यया अदर्शनशक्त्या ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.